Breaking News

भारतीय संस्कृत नाट्य परम्परा लोकमङ्गलस्य द्योतिका– कुलपति-प्रो.रमाकान्तपाण्डेय….

Jdnews Vision…

.टिहरी-गढवालजनपदीया भारतीय संस्कृत नाट्य परम्परा विषयिणी सङ्गोष्ठी सम्पन्न…

वार्ताहरौ-डॉ. मूलचन्द्र- शुक्लः,अभिषेकपाण्डेयश्च…

चन्द्रबदनी (नैखरी), टिहरी-गढवालम्: : उत्तराखण्ड-संस्कृत-संस्थानम् हरिद्वारम्, श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालय:, चन्द्रबदनी-नैखरी-परिसर: चेत्यनयोः संयुक्ततत्त्वावधानेन संस्कृतमास-महोत्सवोपलक्ष्ये व्याख्यानम् आचरितम्।”भारतीयसंस्कृतनाट्यपरम्परा” इति विषयमधिकृत्य २२ सितम्बर २०२६ तमे दिनाङ्के अन्तर्जालीय-सङ्गोष्ठ्याः आयोजनं समभवत्।

अस्यां सङ्गोष्ठ्यां भारतीयसंस्कृतनाट्यपरम्परायाः उद्भव-विकास-यात्रा, शास्त्रीयाधारः, साहित्यिकवैभवम्, रङ्गमञ्चीयस्वरूपम्,सांस्कृतिकचेतना, समकालिकप्रासङ्गिकता च इत्येतेषु विविधेषु पक्षेषु विद्वद्भिः विस्तरेण विचारविनिमयः समाचरितः। भारतीयनाट्यपरम्परायाः बहुविधवैशिष्ट्यानि शास्त्रीयदृष्ट्या समीक्ष्य तस्याः लोकजीवनसम्बद्धता च विशदीकृता।

कार्यक्रमस्य अध्यक्षतां श्रीदेवसुमन-उत्तराखण्डविश्वविद्यालयस्य चन्द्रबदनी-नैखरी-परिसरस्य प्रभारीनिदेशकः डॉ. महन्थमौर्य अकरोत्। सः कार्यक्रमस्य ज्ञानवर्धकतां प्रयोजनवत्त्वं च प्रतिपाद्य सर्वेषां प्रतिभागिनां कृते अयं कार्यक्रमः अत्यन्तमुपकारकः इति अभ्यधात्।

सङ्गोष्ठ्याम् उत्तराखण्ड-संस्कृत-विश्वविद्यालय: हरिद्वारम्, इत्यस्य कुलपति: प्रो. रमाकान्तपाण्डेयवर्य: मुख्यवक्तारूपेण समुपस्थित आसीत्। सः स्वकीयमुख्य- वक्तव्ये भारतीयनाट्यपरम्परां केवलं मनोरञ्जनप्रधानां विधां न मन्यमानः, अपितु तां भारतीयजीवनदर्शनस्य, लोकमङ्गलस्य, नैतिकमूल्यानां, सौन्दर्यबोधस्य सांस्कृतिकचेतनायाश्च सशक्तां कलात्मकाभिव्यक्तिम् इति निरूपितवान्।

सः महर्षिणा भरतेन प्रणीतस्य नाट्यशास्त्रस्य, रससिद्धान्तस्य, अभिनयस्य, नाट्यस्य विविधाङ्गानां च विशदं विवेचनं कृत्वा भास-कालिदास-शूद्रक-भवभूत्यादीनां संस्कृतनाटककाराणां सृजनपरम्परां समुपस्थापितवान्। संस्कृतनाट्यसाहित्यस्य व्यापकतां वैशिष्ट्यं च सः सोदाहरणं व्याख्याय तस्य भारतीयसाहित्यपरम्परायां विशिष्टं स्थानं निरूपितवान्। तेन उत्तराखण्डस्य लोकपरम्परापि वैदिकपरम्परया अनुप्राणिता इति प्रतिपादितम्।

कार्यक्रमस्य मुख्यातिथिरूपेण जवाहरलालनेहरूविश्वविद्यालयस्य विशिष्टसंस्कृताध्ययनकेन्द्रस्य प्रो. हरिराममिश्रमहोदयः समुपस्थितः। सः प्रतिपादितवान् यत् संस्कृतनाटकेषु तत्कालीनसमाजस्य, राजनीतेः,संस्कृतेः, लोकजीवनस्य, मानवीयसंवेदनानां च अत्यन्तं कलात्मकं चित्रणं समुपलभ्यते। रसैः भावै:, चतुर्विधाभिनयेन, सङ्गीतेन, नृत्येन, संवादेन च समन्वितया भारतीयनाट्यपरम्परया भारतीयज्ञानपरम्परा सम्यक् संरक्षिता संवर्धिता च।

सः “मुद्राराक्षसम्” इति प्रसिद्धनाटकस्य नाटकीयतां तत्र विद्यमानानां विविधनाट्यतत्त्वानां च सोदाहरणं विवेचनं कृतवान्।

विशिष्टातिथिरूपेण उत्तराखण्डसंस्कृतविश्वविद्यालयस्य, हरिद्वारस्य मुख्यशास्ता तथा शिक्षाशास्त्रविभागाध्यक्षः प्रो. अरविन्दनारायणमिश्रः उपस्थित आसीत्। स आधुनिके डिजिटलमाध्यमप्रधानयुगे संस्कृतनाट्यसाहित्यं रङ्गपरम्परां च नवपीढ्या सह संयोजयितुं तदनुकूलानि नूतनानि प्रयत्नानि करणीयानि इति विशेषेण प्रतिपादितवान्।

वक्तारूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य देवप्रयागपरिसरस्य वेदविभागाध्यक्षः डॉ. शैलेन्द्रउनियालः भारतीयसंस्कृतनाट्यपरम्परायाम् अन्तर्निहितानाम् औपनिषदिकाख्यानानां विशदं विवेचनं समुपस्थापितवान्।

सङ्गोष्ठ्याः जनपदसंयोजकः सञ्चालकश्च डॉ. मूलचन्द्रशुक्लः, संस्कृतविभागाध्यक्षः, स्वकीयप्रास्ताविकसम्बोधने भारतीयसंस्कृतनाट्यपरम्परायाः समृद्धां गौरवशालिनीं च परम्परां जनं जनं प्रति प्रसारयितुं एतादृशानाम् शैक्षणिककार्यक्रमाणाम् आयोजनम् अत्यावश्यकम् इति प्रतिपादितवान्।

सहसंयोजकः आचार्यः रोशनगौडः समागतानां सर्वेषाम् अतिथीनां विदुषां च सादरं स्वागतं कृतवान्।

कार्यक्रमे आनन्दा हिमानी, डॉ. नवीनजशोला, डॉ. मुदितशुक्लः, डॉ. आशीषत्रिपाठी, डॉ. अभिषेक पाण्डेयः,डॉ. अजीतपंवारः, डॉ. प्रकाशजाङ्गी, प्रो. प्रकाशपन्तः, डॉ. कैलासपतिमैठाणी,डॉ. मोनाली, मोहित उप्रेती एतैः विद्वद्भिः सह चन्द्रबदनीपरिसरस्य समस्ताः प्राध्यापकाः, शिक्षकाः, विद्यार्थिनः, शोधच्छात्राः, गणमान्यजनाश्च बहुसङ्ख्यया समुपस्थिताः आसन्।

उत्तराखण्डसंस्कृतसंस्थानेन संस्कृतभाषायाः प्रचार-प्रसार-संरक्षण-संवर्धनादिदिशि क्रियमाणानां विविधकार्यक्रमाणां विषये प्रकाशं प्रसारयन् संस्थायाः सचिवः प्रो. विनयविद्यालङ्कारः अवदत् यत् अस्याः सङ्गोष्ठ्याः माध्यमेन प्रतिभागिनां कृते भारतीयज्ञानपरम्परायाः अत्यन्तमहत्त्वपूर्णस्य पक्षस्य संस्कृतनाट्यसाहित्यस्य भारतीयरङ्गमञ्चपरम्परायाश्च सम्यगवबोधनस्य महत्त्वपूर्णः अवसरः प्राप्तः।

संस्कृतमासमहोत्सवस्य अन्तर्गतायं कार्यक्रमः भारतीयसंस्कृतेः संस्कृतभाषायाश्च संरक्षणे, संवर्धने, प्रचार-प्रसारे च सार्थकशैक्षणिकसामर्थ्यं समुपस्थापयति। अस्य माध्यमेन संस्कृतनाट्यपरम्परायाः गौरवशालिनीं सांस्कृतिकविरासतं नवपीढीपर्यन्तं प्रापयितुं नवीनदिक् उद्घाटिता इति वक्तुं शक्यते।

कार्यक्रमस्य समापनावसरे डॉ. दयाधरदीक्षितः समागतान् सर्वान् अतिथीन् विदुषः प्रतिभागिनश्च प्रति कृतज्ञतां ज्ञापयन् धन्यवादं समर्पितवान्।

एवं सङ्गोष्ठ्याः माध्यमेन भारतीयसंस्कृतनाट्यपरम्परायाः शास्त्रीयवैभवं, सांस्कृतिकगाम्भीर्यं, लोकजीवनसम्बद्धता, नैतिकमूल्यप्रतिपादकता, सौन्दर्यचेतना च सम्यक् प्रकाशिता। भारतीयनाट्यपरम्परा मनोरञ्जनस्य साधनमात्रं न, अपितु लोकमङ्गलस्य, संस्कृतिसंरक्षणस्य, ज्ञानपरम्परासंवर्धनस्य च प्रभाविनी वाहिनी इति विद्वद्भिः समवेतस्वरेण प्रतिपादितम्।

About admin

Check Also

भारतीय संस्कृत नाट्यपरम्परा लोकमंगल की द्योतक- कुलपति प्रो. रमाकान्त पाण्डेय… 

Jdnews Vision…. (भारतीय संस्कृत नाट्यपरम्परा पर टिहरी गढ़वाल की संगोष्ठी आयोजित) चन्द्रबदनी (नैखरी) टिहरी गढ़वाल: …

Leave a Reply

Your email address will not be published. Required fields are marked *